Monday, November 2, 2009

जयतु मध्यप्रदेशः

जयतु मध्यप्रदेशः

बुन्देलं च बघेलखण्डं निमाणं मालवादिनाम्।
पवित्र भूमेर्जातः मध्यप्रदेशस्तु कथ्यते।।

परमाति विशालोऽयं प्रदेशो मध्यभारतः।
कृष्णा उर्वरा भूमिः युक्तो वन खनिज सम्पदाभिः।।
बहन्ति नर्मदा चम्बल नद्यः वेत्रवत्यादयः।
स्थितौ प्रहरी इवारण्यौ सतपुड़ा विन्ध्याचलौ।।

भोजो विक्रमादित्यः अहिल्या दुर्गावती।
आदर्शाः राजनयिकानां सत्य न्याय प्रजाप्रियाः
भोपालमस्य राजधानी वनखण्ड परिवेष्टिता।
विविधाः सांस्कृतिक केन्द्राः इन्दौरे च जबलपुरे।।

पचमढीव प्रकृति सौन्दर्यं खजुराहो इव कलाकृतिः।
स्वर्गः पर्यटकानां कला सौन्दर्य ज्ञानिनाम्।।
उज्जयिन्यां महाकालं सांची ओंकारेश्वरम्।
मोक्षदः तीर्थ यात्रिभ्यः संमिलति कुम्भमेलकः।।

माखनलाल चतुर्वेदी परसाई हरिशंकरः।
भवानीप्रसाद मिश्रश्च भूमिः साहित्यधर्मिणाम्।।
शिवराजसिंह चौहानः नेतृत्वे मुख्यमन्त्रिणः
विकासशीलः चाग्रसरः नित्यं उन्नति पथे।।

शास्त्री नित्यगोपाल कटारे

Saturday, August 29, 2009

विवेकानंद केरियर मार्गदर्शन शिविर में उपस्थित स्पेन से आए संयुक्त राष्ट्रसंघ के अधिकारी डा० हर्ष वर्मा श्रीमती लता वर्मा , कलेक्टर श्री निशान्त barabade